|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.62. अध्यायः 062
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति दानादिषु पात्रलक्षणानां स्वर्गनरकप्रापकपुण्यपापानां च प्रतिपादनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
पित्र्यं वाऽप्यथवा दैवं दीयते यत्पितामह।
एतदिच्छाम्यहं ज्ञातुं दत्तं केषु महाफलम्॥ 13-62-1(83905)
भीष्म उवाच। 13-62-2x(6987)
येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः।
उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर॥ 13-62-2(83906)
चारित्रनिरता राजन्ये कृशाः कृशवृत्तयः॥
अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम्॥ 13-62-3(83907)
तद्भक्तास्तद्गृहा राजंस्तद्बलास्तदपाश्रयाः।
अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम्॥ 13-62-4(83908)
तस्करेभ्यः परेभ्यो वा हृतस्वा भयदुःखिताः।
अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम्॥ 13-62-5(83909)
अकल्ककस्य विप्रस्य रौक्ष्यात्करकृतात्मनः।
वटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम्॥ 13-62-6(83910)
हृतस्वा हृतदाराश्च ये विप्रा देशसम्प्लवे।
अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम्॥ 13-62-7(83911)
व्रतोनो नियमस्थाश्च ये विप्राः श्रुतसम्मताः।
तस्मपाप्त्यर्थमिच्छन्ति तेभ्यो दत्तं महाफलम्॥ 13-62-8(83912)
अत्युत्क्रान्ताश्च धर्मेषु पाषण्डस्रमयेषु च।
कृशप्राणाः कृशघनास्तेभ्यो दत्तं महाफलम्॥ 13-62-9(83913)
कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः।
स्पृहयन्ति च भुक्त्वाऽन्नं तेषुदत्तं महाफलम्॥ 13-62-10(83914)
तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये।
अर्थिनः किञ्चिदिच्छन्ति तेषु दत्तं महाफलम्॥ 13-62-11(83915)
महाफलविधिर्दाने श्रुतस्ते भरतर्षभ।
निरयं येन गच्छन्ति स्वर्गं चैव हि तत्छृणु॥ 13-62-12(83916)
`व्रतानां पारणार्थाय गुर्वर्थे यज्ञदक्षिणाम्।
निर्वेशार्थं च विद्वांसस्तेषां दत्तं महाफलम्॥ 13-62-13(83917)
पित्रोश्च रक्षणार्थाय पुत्रदारार्थमेव वा।
महाव्याधिविमोक्षार्थं तेषु दत्तं महाफलम्॥ 13-62-14(83918)
बालाः स्त्रियश्च वाञ्छन्ति सुभक्तं चाप्यसाधनाः।
स्वर्गमायान्ति दत्त्वैषां निरयान्नोपयान्ति ते॥'॥ 13-62-15(83919)
गुर्वर्थमभयार्थं वा वर्जयित्वा युधिष्ठिर।
येऽनृतं कथयन्ति स्म ते वा निरयगामिनः॥ 13-62-16(83920)
परदाराभिहर्तारः परदाराभिमर्शिनः।
परदारप्रयोक्तास्ते वै निरयगामिनः॥ 13-62-17(83921)
ये परस्वापहर्तारः परस्वानां च नाशकाः।
सूचकाश्च परेषां ये ते वा निरयगामिनः॥ 13-62-18(83922)
प्रपाणां च सभानां च संक्रमाणां च भारत।
अगाराणां च भेत्तारो नरा निरयगामिनः॥ 13-62-19(83923)
अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम्।
वञ्चयन्ति नरा ये च ते वै निरयगामिनः॥ 13-62-20(83924)
वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत।
मित्रच्छेदं तथाऽऽशायास्ते वै निरयगामिनः॥ 13-62-21(83925)
सूचकाः सेतुभेत्तारः परवृत्त्युपजीवकाः।
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः॥ 13-62-22(83926)
पाषण्डा दूषकाश्चैव समयानां च दूषकाः।
ये प्रत्यवसिताश्चैव ते वै निरयगामिनः॥ 13-62-23(83927)
विषमव्यवहाराश्च विषमाश्चैव वृद्धिषु।
लाभेषु विषमाश्चैव ते वै निरयगामिनः॥ 13-62-24(83928)
दूतसंव्यवहाराश्च निष्परीक्षाश्च मानवाः।
प्राणिहिंसाप्रवृत्ताश्चि ते वै निरयगामिनः॥ 13-62-25(83929)
कृताशं कृतनिर्देशं कृतभक्तं कृतश्रमम्।
भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः॥ 13-62-26(83930)
पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा।
उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः॥ 13-62-27(83931)
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः।
वेदानां लेखकाश्चैव ते वै निरयगामिनः॥ 13-62-28(83932)
चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः।
विकर्मभिश्च जीवन्ति ते वै निरयगामिनः॥ 13-62-29(83933)
केशविक्रयिका राजन्विषविक्रयिकाश्च ये।
क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः॥ 13-62-30(83934)
ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर।
येऽन्तरायान्ति कार्येषु ते वै निरयगामिनः॥ 13-62-31(83935)
शस्त्रविक्रयिकाश्चैव कर्तारश्च युधिष्ठिर।
शल्यानां धनुषां चैव ते वै निरयगामिनः॥ 13-62-32(83936)
शिलाभिः शङ्कुभिर्वाऽपि श्वर्भ्रैर्वा भरतर्षभ।
ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः॥ 13-62-33(83937)
उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ।
ये त्यजन्त्यविकारांस्त्रींस्ते वै निरयगामिनः॥ 13-62-34(83938)
अप्राप्तदमकाश्चैव नासानां वेधकाश्च ये।
बन्धकाश्च पशूनां ये ते वै निरयगामिनः॥ 13-62-35(83939)
अगोप्तारश्च राजानो बलिषड्भागतस्कराः।
समर्थाश्चाप्यदातारस्ते वै निरयगामिनः॥ 13-62-36(83940)
क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान्।
त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः॥ 13-62-37(83941)
बालानामथ वृद्धानां दासानां चैव ये नराः।
अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः॥ 13-62-38(83942)
एते पूर्वं विनिर्दिष्टाः प्रोक्ता निरयगामिनः।
भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ॥ 13-62-39(83943)
सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत।
हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः॥ 13-62-40(83944)
दानेन तपसा चैव सत्येन च युधिष्ठिर।
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः॥ 13-62-41(83945)
शुश्रूषाभिस्तपोभिश्च विद्यामादाय भारत।
ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः॥ 13-62-42(83946)
भयात्पाषात्तथा बाधाद्दारिद्र्याद्व्याधिधर्षणात्।
तत्कृते धनमीप्सन्ते ते नराः स्वर्गगामिनः॥ 13-62-43(83947)
क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः।
मङ्गलाचारसम्पन्नाः पुरुषाः स्वर्गगामिनः॥ 13-62-44(83948)
निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च।
निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः॥ 13-62-45(83949)
आश्रमाणां च कर्तारः कुलानां चैव भारत।
देशानां नगराणां च ते नराः स्वर्गगामिनः॥ 13-62-46(83950)
वस्त्राभरणदातारो भक्ष्यपानान्नदास्तथा।
कुटुम्बानां च भर्तारः पुरुषाः स्वर्गगामिनः॥ 13-62-47(83951)
सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः॥ 13-62-48(83952)
मातरं पितरं चैव शुश्रुषन्ति जितेन्द्रियाः।
भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः॥ 13-62-49(83953)
आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत।
ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः॥ 13-62-50(83954)
अपराधिषु सस्नेहा मृदवो मृदुवत्सलाः।
आराधनसुखाश्चापि पुरुषाः स्वर्गगामिनः॥ 13-62-51(83955)
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः।
त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः॥ 13-62-52(83956)
सुवर्णस्य च दातारो गवां च भरतर्षभ।
यानानां वाहनानां च ते नराः स्वर्गगामिनः॥ 13-62-53(83957)
वैवाहिकानां द्रव्याणां प्रेष्याणां च युधिष्ठिर।
दातारो वाससां चैव ते नराः स्वर्गगामिनः॥ 13-62-54(83958)
विहारावसथोद्यानकूपारामसभाप्रपा।
वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः॥ 13-62-55(83959)
निवेशनानां क्षेत्राणां वसतीनां च भारत।
दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः॥ 13-62-56(83960)
रसानां चाथ बीजानां धान्यानां च युधिष्ठिर।
स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः॥ 13-62-57(83961)
यस्मिंस्तस्मिन्कुले जाता बहुपुत्राः शतायुषः।
सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः॥ 13-62-58(83962)
एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत।
दानधर्मं च दानस्य यत्पूर्वमृषितिः कृतम्॥ ॥ 13-62-59(83963)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विषष्टितमोऽध्यायः॥ 62 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-62-2 भोजनपात्रेऽवशिष्टमुच्छेषः तेन सहितं परिशेषं स्थाल्यामवशिष्टं प्रतीक्षन्ते। येषां पाकपर्याप्तमेव धान्यादिकमस्ति न कुसूलादौ तान् भोजय॥ 7-62-4 तद्भक्ताः चारित्रमेव भक्तोऽन्नं तद्वज्जीवनं येषां ते। तद्गृहाः तदेव गृहे स्त्र्यादौ येषां ते अर्थे प्रयोजने सत्येवार्थिनो भवन्ति न सङ्ग्रहार्थम्॥ 7-62-6 रौक्ष्यात् दारिद्र्यात्। करे कृतः आत्मेवात्मा जीवनमन्नम्। हस्ते गृहीतान्नस्य वटवः क्षुधार्ताः मह्य देहि मह्यं देवीति याचन्ते तेभ्योऽतिदरिद्रेभ्यः॥ 7-62-9 पाषण्डानां समयो मर्यादा येषु धर्मेषु तत्र अत्युत्क्रान्ताः अत्यन्तं ततो दूरे स्थिताः॥ 7-62-10 भुवत्वान्नमेव स्पृहयन्ति न स्वादु। अतएव न चतुर्थी॥ 7-62-16 असयार्थं, भयनिवृत्तिरूपं प्रयोजनम्॥ 7-62-17 अभिमर्शितो जाराः। प्रयोक्तारः हर्त्रभिमर्शिनोर्दूताः॥ 7-62-18 परेषां दोषस्येति शेषः॥ 7-62-21 आशायाश्छेदमित्येकदेशानुषङ्गः। कुर्वन्तीति शेषः॥ 7-62-22 सूचकाः राजगामिपैशुन्यवादिनः। सेतुः आर्यमर्यादा॥ 7-62-23 पाषण्डाः वेदविरोधिनः शाक्यादयः दूषकाः सतां निन्दकाः। समयानां धर्मसङ्केतानाम्। प्रत्यवसिताः आरूढपतिताः॥ 7-62-26 कृताशं दासमर्थिन वा। कृतनिर्देशं निर्देशः तुभ्यमिदं दास्यामीति प्रतिज्ञा सा कृतायस्मै तम्। भक्तं वेतनम्। व्यपकर्षन्ति षत्युः सकाशाद्दूरीकुर्वन्ति॥ 7-62-27 पर्यश्नन्ति। परित्यज्याश्नन्ति॥ 7-62-29 विकर्मभइः स्वस्य निषिद्धैः कर्मभिः॥ 7-62-30 केशाश्चामरकम्बलादयः॥ 7-62-32 कर्तारः शस्त्रशल्यादीनाम्॥ 7-62-35 अप्राप्तानामदान्तानां पशूनाम्। अण्डमर्दनेन बलवीर्ययोर्नाशका अप्राप्तदमकाः॥ 7-62-40 ये ब्राह्मणातिक्रमं न कुर्वन्ति ते स्वर्गागामिन इत्यर्थः॥ 7-62-43 कर्तारः पालनकर्तारः॥ 7-62-51 आराधनेनि इतरान् सुखयनति ते तथा॥ 7-62-57 दानस्य प्रत्यर्पणस्य। दानं च तद्धर्म येति शोधको धर्मः दैष् शोधन इति धातुः अमुत्रार्थं परलोकफलम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|